||Sundarakanda ||

|| Sarga 16||( Slokas in Devanagari )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

सुन्दरकाण्ड्.
अथ षोडशस्सर्गः

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगव।
गुणाभिरामं रामं च पुनः चिंतापरोऽभवत् ||1||

स मुहूर्तमिव ध्यात्वा भाष्पपर्याकुलेक्षणः।
सीता माश्रित्य तेजस्वी हनुमान्विललाप ह॥2||

मान्या गुरुवीनीतस्य लक्ष्मणस्य गुरुप्रिया।
यदि सीताऽपि दुःखार्तो कालोहि दुरततिक्रमः॥3||

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः |
नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे॥4||

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥5||

'तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्।
जगाम मनसा रामं वचनं च इदमब्रवीत्॥6||

अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।
रावण प्रतिमो वीर्ये कबन्धश्च निपातितः॥7||

विराधश्च हत स्संख्ये राक्षसो भीमविक्रमः।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥8||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरै रग्निशिखोपमैः॥9||

खरश्च निहत स्संख्ये त्रिशिराश्च निपातितः।
दूषणश्च महातेजा रामेण विदितात्मना॥10||
]
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम्॥11||

सागरश्च मया क्रांतः श्रीमान् नदनदी पतिः |
अस्याहेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥12||

यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् |
अस्याः कृते जगत् चापि युक्तं इत्येव मे मतिः॥13||

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।
त्रैलोक्य राज्यं सकलं सीताया नाप्नुयत्कलाम्॥14||

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः।
सुता जनकराजस्य सीता भर्तृदृढव्रता ||15||

उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षते |
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥16||

विक्रान्तस्यार्य शीलस्य संयुगे ष्वनिवर्तिनः।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी॥17||

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।
इयं सा दयिता भार्या राक्षसीवशमागता॥18||

सर्वान्भोगान् परित्यज्य भर्तृ स्नेहबलात्कृता।
अचिन्तयित्वा दुःखानि प्रविष्ठा निर्जनं वनम्॥19||

संतुष्टा फलमूलेन भर्तृ शुश्रूषणे रता।
या परां भजते प्रीतिं वनेऽपि भवने यथा॥20||

सेयं कनकवर्णाङ्गी नित्यं सुस्मित भाषिणी।
सहते यातनामेतां अनर्थानां अभागिनी॥21||

इमां तु शीलसंपन्नां द्रष्टुमर्हति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः॥22||

अस्यानूनं पुनर्लाभात् राघवः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥23||

कामभोगैः परित्यक्ता हीना बन्धुजनेन च।
धारयत्यात्मनो देहं तत् समागमकाक्षिणी॥24||

नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्।
एकस्थ हृदया नूनं राममेवानुपश्यति॥25||

भर्ता नाम परं नार्या भूषणं भूषणादपि।
एषातु रहिता तेन भूषणार्हा नशोभते ||26||

दुष्करं कुरुते रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न दुःखे नावसीदति॥27||

इमां असितकेशान्तां शतपत्र निभेक्षणा।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः॥28||

क्षितिक्षमा पुष्करसन्निभाक्षी
या रक्षिताराघव लक्ष्मणाभ्याम्।
सा राक्षसीभि र्विकृतेक्षणाभिः
संरक्ष्यते संप्रति वृक्षमूले॥29||

हिमहतनळिनीव नष्टशोभा
व्यसन परम्परया निपीड्यमाना।
सह चर रहितेव चक्रवाकी
जनकसुता कृपणां दशां प्रपन्ना॥30||

अस्या हि पुष्पावनताग्र शाखाः
शोकं दृढं वै जनयन्त्यशोकाः।
हिमव्यपायेन च शीतरश्मिः
अभ्युत्थितो नैक सहस्र रश्मिः॥31||

इत्येव मर्थं कपिरन्ववेक्ष्य
सीतेय मित्येव विनिष्ट बुद्धिः।
संश्रित्य तस्मिन् निषसाद वृक्षे
बली हरीणां वृषभस्तरस्वी॥32||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे षॊडशस्सर्गः॥

||ōm tat sat||